एकता में बल कहानी से हमें क्या शिक्षा मिलती है? Ekata me bal he short story.
एकता में बल कहानी से हमें क्या शिक्षा मिलती है? Ekata me bal he short story.
◇ एकता हि बलम्◇
अस्ति कश्चित् ग्रामः । तस्मिन् ग्रामे एकः धनिकः निवसति । तस्य नाम गोपालः । तस्य पुत्रस्य नाम लम्बोदरः । लम्बोदरस्य विवाहसमयः आगच्छति । तस्य बन्धुजनाः सुन्दराणि वस्त्राणि, विविधान् अलङ्कारान् च धारयित्वा कन्यादर्शनाय गच्छन्ति।
मार्गे केचन चौरा: आगच्छन्ति । गोपालः तान् दूरात् पश्यति । सः चिन्तयति- “वयं किं करिष्यामः ?" इति । सः सर्वान् निजबन्धुजनान् कथयति- “भोः ! जागरुकाः भवन्तु, प्रायशः चौराः आगच्छन्ति । ते अस्माकं समीपात् धनम् अलङ्कारान् च अपहरिष्यन्ति । अतः वयं सर्वे मिलित्वा तेषां विरोधं करिष्यामः । नोचेत् अस्माकं हानिः भविष्यति ।"
क्रमशः चौरा: समीपम् आगच्छन्ति । ते वदन्ति - “सर्वे अत्रैव तिष्ठन्तु । यदि कोऽपि स्वस्थानात् चलिष्यति तर्हि मृत्युमुखं गमिष्यति।"
गोपालस्य सर्वे बन्धुजना: कौशलेन वृत्ताकारेण अतिष्ठन् । गोपाल: चौरान् अवदत् - "अस्मान् त्यजन्तु । अस्माकं समीपे यत् अस्ति, तत सर्व नयन्तु।' इति।
धनलोभन चौरा: वृत्तमध्य गच्छन्ति । तदा गोपालः सर्वेषां कृते निर्देश ददाति । सर्वे शीघ्रम् एव तान आयतान कुर्वन्ति, तथा ताड़यन्ति । तत: चौरा: भयेन आत्मसमर्पण कुर्वन्ति ।
एकताबलेन तेषां प्राणरक्षा धनरक्षा च अभवताम् । अतः नीतिकारः
वदति-
“संहतिः कार्यसाधिका" ||
Thank you