kalidasah in hindi short stories:2023

 

कालिदासःkalidasah in sanskrit. 

एकदा एकः छात्र: शिक्षकम् अपृच्छत् - गुरुदेव ! पुरा अस्माकं देशे कालिदासः इति एक: महाकविः आसीत् । अधुना तादृशः कविः विरलः) भवान् कृपया अद्य तस्य विषये किञ्चित् कथयतु । 

गुरुः अकथयत् - वत्स ! शृणु, बाल्ये कालिदासः अतीव मूर्खः आसीत् । घटनाक्रमेण विद्यावत्या सह तस्य परिणयः अभवत् । विद्यावती तस्य मूर्खताम् अजानात् । सा तस्य अपमानम् अकरोत् । पत्न्याः अपमानात् कालिदासः दुःखितः अभवत् । 

प्राणविसर्जनाय यदा सः उद्यतः अभवत् तदा देवी प्रत्यक्षम् आविर्भूय तम् अवारयत् । ततः वाग्देव्याः प्रसादात् स: महाकविः अभवत् । महाकविः कालिदासः अभिज्ञानशाकुन्तलम्, मालविकाग्निमित्रम्, विक्रमोर्वशीयम् इति नाटकत्रय, रघुवंशम्, कुमारसम्भवम् इति महाकाव्यद्वयं, मेघदूतम्, ऋतुसंहारम् चेति गीतिकाव्यद्वयम्अ रचयत् । तस्य भाषा यथा सरला तथा मधुरा च भवति । त्वम् अवश्य तस्य कवितां पठिष्यसि। 

छात्रः अवदत् - गुरो ! अहम् अद्यप्रभृति नियमितरूपेण प्रातः सायं च कालिदासस्य कवितां पठिष्यामि । ऐषमः कालिदासस्य कविताप्रतियोगितायाम् अपि भागं नेष्यामि ।


Thank you

Related

HINDI STORY 7123061226348439134

Post a Comment

emo-but-icon

Popular Posts

Featured post

Hindi biography of Dr.Apj abdul kalam :2023

 पुत्रो धन्य: यो जातः सन् ज्ञानगौरवेण जन्मभूमेः उन्नत्यर्थमात्मानं समर्पयति । सः देशस्य एक: योग्यः पुत्रः अस्ति । स विज्ञानक्षेत्रे  निरन्तर...

Hot in week

Comments

Recent

item
- Navigation -