Raksha raksha kanana nam hindi poets
https://majhitechs.blogspot.com/2022/03/raksha-raksha-kanana-nam.html
Raksha raksha kanana nam
रक्ष रक्ष कानननम्
रक्ष रक्ष काननं
वृक्षराशि - शोभनम्।
काले वृष्टि - कारकम्
शुद्धवायुदायकम् ।।१।।
रोगवारणोचिता
मूलिका वने स्थिता।
सम्पदां हि सम्पदं
काननं विचिन्तय ।।२।।
काननं हि जीवनं
रक्ष रक्ष तद् धनम्।
काननस्य नाशन
स्वस्य विद्धि नाशनम् ।।३।।
काननस्य वर्धने
निरतः सत्यरक्षणे।
त्वं भविष्यचिन्तने
युक्तमानसो भव ।।४।।