SUBHASHITANEE HINDI POETS

 

 ◇SUBHASHITANEE◇


सुभाषितानि subhashitanee:-


माता शत्रुः पिता वैरी येन बालो न पाठितः ।

न शोभते सभामध्ये हंसमध्ये बको यथा ।।१।।

माता शत्रु: भवति । य: पिता न पाठयति ।


अर्थ :- या माता बालं न पाठयति सा- माता शत्रुः भवति । यः पिता न पाठयति। स: पिता वैरी भवति । हंसमध्ये वक: यथा न शोभते तथा अयं मूर्खः बाल: सभामध्ये न शोभते ।


पठतो नास्ति मूर्खत्वं जपतो नास्ति पातकम् ।

मौनिनः कलहः नास्ति न भयं चास्ति जाग्रतः ।।२।।


अर्थ:- पठत: जनस्य मूर्खत्वं नास्ति। जपत: लोकस्य पातकं नास्ति। मौनिजनस्य कलहः नास्ति । जाग्रतः जनस्य भयं नास्ति ।


विद्या ददाति विनयं विनयाद् याति पात्रताम्।

पात्रत्वाद् धनम् आप्नोति धनाद्धर्म: ततः सुखम्।।३।।


  अर्थः- विद्या विनयं ददाति । विनयात् पात्रतां याति ।

पात्रत्वात् धनम् आप्नोति। धनात् धर्म: तत: सुखम् आप्नोति ।


वृक्षो ददाति पुष्पाणि शाकं सस्य फलानि तु

प्राणवायु (अम्लजान) च छायां वै कुरु वृक्षस्य रोपणम्।।४।।


अर्थः- वृक्षः पुष्पाणि शाकं सस्य फलानि प्राणवायु (अम्लजान) छायां च ददाति । अतः वृक्षस्य रोपणं कुरु।


अयं निज: परो वेति गणना लघुचेतसाम्।

उदारचरितानां तु वसुधैव कुटुम्बकम् ।।५।।


अर्थ:-अयं निज: पर: वा इति लघुचेतसां गणना भवति । किन्तु उदारचरितानां वसुधा एव कुटुम्बकम् इति गणना भवति ।



हस्तस्य भूषणं दानं सत्यं कण्ठस्य भूषणम् ।

श्रोत्रस्य भूषणं शास्त्र भूषणैः किं प्रयोजनम् ।।६।।


अर्थ: दान हस्तस्य भूषणम्। सत्यं कण्ठस्य भूषणम्। शास्त्रं- श्रोत्रस्य भूषणम्। अत तभूषणैः किं वा प्रयोजनम्।



Related

HINDI POETS 1542329052482906388

Post a Comment

emo-but-icon

Popular Posts

Featured post

Hindi biography of Dr.Apj abdul kalam :2023

 पुत्रो धन्य: यो जातः सन् ज्ञानगौरवेण जन्मभूमेः उन्नत्यर्थमात्मानं समर्पयति । सः देशस्य एक: योग्यः पुत्रः अस्ति । स विज्ञानक्षेत्रे  निरन्तर...

Hot in week

Comments

Recent

item
- Navigation -