Rama tapobana bhigamanam in hindi story
रामतपोवनाभिगमनम्
(डा एच. आर. विश्वासः कर्णाटकस्य माङ्गालोरनगरस्य बाबुल
हरिदासलेन इति स्थानस्य वास्तव्यः | तस्य जन्मतिथि:
०१.०३.१९५१(ई) /स सम्भाषणसन्देशस्य उपदेष्टा / तत्प्रणीतानि एकादश पुस्तकानि सन्ति । प्रतापनारायण मिश्रस्मृतियुवसाहित्यकार सम्मान-शृङ्गेरीपीठ संस्कृतवर्षाचरणसमिति सम्मानाभ्यां सभाजितः ।
तद्रचनातः रामतपोवनाभिगमनम् इति विषयः संगृहीतः सम्पादितश्च ।
रम्या रामायणी गङ्गा पुनाति भुवनत्रयम् । लौकिक-
संस्कृतभाषायाः सर्वप्रथमा कविता पुराणमुनिना महर्षिवाल्मीकिना एव प्रवर्त्तिता इति सर्वजनविदितमेतत् । प्राचीनतमम् आर्षकाव्यं रामायणं श्रीरामचन्द्रस्य परमपावनं चरितम् आश्रित्य विरचितम्, यस्य पठनात्
- रामादिवत् प्रवर्तितव्यं न रावणादिवत् - इत्युपदेशः केनाऽपि
अकथितोऽपि स्वतः उररीक्रियते ।
प्रस्तुतप्रसङ्गः एकाडिकारूपेण अत्र समुपस्थापितः । मुनिश्रेष्ठः
विश्वामित्र: अलाशिक्षाप्रदानादिविशेषाभिप्रायेण रामलक्ष्मणौ
काननाभ्यन्तरं नेतुम अयोध्याधिपं दशरथं प्राप्नोति / कुलगुरोः
वसिष्ठस्योपदेशात, पितुःदशरथस्य अनुमत्या च रामलक्ष्मणौ
विश्वामित्रेण सह राक्षसनिहननार्थ काननं प्रयातौ इति ।) सीन
(दशरथस्य आस्थानम् । दशरथ: वसिष्ठः च उपविष्टौ
स्तः । सेवकः प्रविशति ।)
सेवक: (प्रविश्य) जयतु महाराजः, प्रभो! विश्वामित्रमहर्षिः
आगतः अस्ति ।
दशरथः (उत्थाय) कः..? विश्वामित्रमहर्षिः वा? तं शीघ्रमेव
अन्त: प्रवेशय।
सेवकः यथाज्ञापयति महाराजः ।
(गच्छति - विश्वामित्रेण सह प्रत्यागच्छति)।
दशरथः
महर्षे! अभिवादये । (प्रणमति)
विश्वामित्रः महाराज! विजयी भव!
दशरथ: एतदासनम् अलङ्करोतु ।
विश्वामित्रः - तथैव अस्तु । (उपविशति)
दशरथः पूज्य! सर्वं कुशलं किम्?
विश्वामित्रः आं महाराज! सर्वं कुशलम् ।
दशरथ: भवतः आगमनकारणं ज्ञातुं शक्नोमि किम् ?
विश्वामित्रः वदामि । परन्तु मया यद् अपेक्षितं तत् ददामि इति
वचनं भवान् ददाति चेत् निश्चयेन वदामि ।
दशरथः महर्षे ! किमर्थं संशयः! भवान् किम् इच्छति वदतु,
निश्चयेन ददामि।
विश्वामित्रः राजन् ! वयं लोकहितार्थं यज्ञं कुर्मः । परन्तु केचन
राक्षसाः यज्ञे विघ्नम् उत्पादयन्ति ।
दशरथः
के ते राक्षसाः?
विश्वामित्रः ताटका नाम राक्षसी अस्ति । मारीचः सुबाहुः च तस्याः
पुत्रौ । एते अस्मान् पीडयन्ति ।
दशरथ: किं कुर्वन्ति ते?
विश्वामित्रः - यज्ञसमाप्तिसमये यज्ञवेदिकायां रक्तमांसादिकं क्षिप्त्वा
यज्ञं नाशयन्ति ।
दशरथः
अहो दुरात्मानः !
विश्वामित्रः - नापेक्षितम् । भवतः आगमनं सर्वथा नापेक्षितम् । यदि शक्यं रामं लक्ष्मणं च प्रेषयतु । नो चेत् मह्यं गमनाय
अनुमतिं ददातु |
दशरथः (स्वगतं) तर्हि किं करोमि इदानीम् ....? (चिन्तयति)
वसिष्ठः दशरथ!
दशरथ: वसिष्ठमहर्षे! भवान् सर्वं श्रुतवान् किल! किं कुर्मः
इदानीम्......?
वसिष्ठः महाराज! एष: विश्वामित्रः साधारण: न; स्वयं
क्षत्रियकुले जातः अपि स्वप्रयत्नेन एव ब्रह्मर्षिपदं
प्राप्तवान् । त्रिशङ्कु-महाराजं सदेहं स्वर्गं प्रति प्रेषितवान्
एषः । एतस्य सामर्थ्यम् अपरिमितम् । एतेन सह
रामलक्ष्मणौ प्रेषयति चेत् तयोः महान् लाभः एव भवति ।
दशरथः तर्हि भवतः अभिप्रायः अपि तथैव वा?
वसिष्ठः आं, यतः विश्वामित्रः शस्त्रशास्त्रयोः पारङ्गतः । तेन
रामलक्ष्मणौ अपि शस्त्रास्त्राणाम् उपदेशं प्राप्तुम् अर्हतः ।
दशरथः अस्तु । यदि भवतः अपि आशयः एवमेव अस्ति,
तर्हि
अवश्यं प्रेषयामि । (विश्वामित्रम् उद्दिश्य) महर्षे! क्षणं
तिष्ठतु | रामलक्ष्मणौ अत्रैव आगच्छतः । कः तत्र ...?
सेवकः
आज्ञापयतु महाराजः!
दशरथः इदानीमेव रामं लक्ष्मणं च अत्र आनयतु ।
सेवकः यथाज्ञापयति देवः । (गच्छति, रामलक्ष्मणाभ्यां सह
आगच्छति ।)
रामःलक्ष्मणःच -(सहैव वदतः)-जनक ! अभिवादये |