Basumati in hindi poets
श्यामल-मुञ्ज-निकुञ्ज-वसुमती नीलकमल-ललिता,
छिन्न-वनस्पति-कुन्तलकान्ति: भारनता लुलिता 10 ।
कालिय-वयं-गरल-रसपाना,
निर्मल-तटिनी मलपरिधाना,
जीवनयमुना खेदनिवहना, विषरस-दानरता ।
श्यामल-मुञ्ज-निकुञ्ज-वसुमती.. लुलिता ॥१॥
गन्धक-पाक्य-कदम्ल-निकाशा:
धीरसमीरा: हारितहासाः ।
निर्झरवहना: सौरभगहनाः,
श्यामल-मुज-निकुञ्ज-वसुमती... लुलिता ।२।
मधुवाता: पिहिताः
यन्त्र-पुतनिका-स्तनरसपीन:
क्षीरमहोदधिरवशो दीनः ।
दूषितसलिला, वसुधा सन्ततमजगरगर्भगता ।
श्यामल-मुञ्ज-निकुञ्ज-वसुमती... लुलिता ।३।
तनय-कर-परशु-भिन्न-तरुततिः
रोदिति घनवनरेणु-वसुमती ।
कल्पवटी या श्यामलशस्या नितरां धूसरिता ।
श्यामल-मुञ्ज-निकुञ्ज-वसुमती.. लुलिता ।४।
गन्धवती गल-शव-दलमाला,
स्फीतक-सीसक-पारद-वेला,
वीडित-सत्ता पीडितचित्ता सा ननु जर्जरिता ।
श्यामल-मुञ्ज-निकुञ्ज-वसुमती.. लुलिता ।५।