baitarani hindi short story:2023
baitarani hindi short story .
वैतरणी baitarani:-
अस्माकं भारतवर्षे अनेकाः नद्यः सन्ति । तासु वैतरणी एकतमा पवित्रनदी । केन्दुझरजिल्लाया: गोनासिकापर्वतात् वैतरणी निर्गता भवति । भारतीयपुराणेषु वैतरण्या: महत्त्वं वर्णितं भवति ।
वैतरण्याः तटे याजपुरनगरम् अस्ति । याजपुरस्य अन्यनाम वैतरणीतीर्थम् । अत्र मनोरमे मन्दिरे विश्वजननी विरजा विराजमाना भवति । वैतरण्याः उत्तरभागे वराहमन्दिरं सूर्यमन्दिरं च तथा दक्षिणतीरे दशाश्वमेधघाटः, सप्तमातृकामन्दिरं, जगन्नाथमन्दिर, लक्ष्मीमन्दिरं च सन्ति।
वैतरण्याः जलम् अतीव पवित्रम् । अत्र स्नानं कृत्वा जनाःपितृपुरुषेभ्यः पिण्डदानं कुर्वन्ति । महाभारतयुगे पाण्डवाः द्रौपद्या सह विरजाक्षेत्रम् आगत्य वैतरण्यां स्नानम् अकुर्वन् । पुरा देवाः मुनयः राजानः चबहुवारम् अत्र यज्ञम् अकुर्वन् । अतः वैतरणी नदीप्रसिद्ध तीर्थं भवति ।